(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

शान्तिपर्व (Mahabharat) - 12. शान्तिपर्व(महाभारत)


॥ श्रीः ॥
12.342. अध्यायः 342
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति दैवपित्र्यकर्मानुष्ठानस्यावश्यकत्वप्रतिपादकनारदनानायणसंवादानुवादः॥ 1॥


Mahabharata - Shanti Parva - Chapter Text

युधिष्ठिर उवाच। 12-342-0x(6561)(79385)
गृहस्थो ब्रह्मचारी वा वानप्रस्थोऽथ भिक्षुकः।
य इच्छेत्सिद्धिमास्थातुं देवतां कां यजेत सः॥ 12-342-1(79386)
कुतो ह्यस्य ध्रुवः स्वर्गः कुतो नैःश्रेयसं परम्।
विधिना केन जुहुयाद्दैवं पित्र्यं तथैव च॥ 12-342-2(79387)
मुक्तश्च कां गतिं गच्छेन्मोक्षश्चैव किमात्मकः।
स्वर्गतश्चैव किं कुर्याद्येन न च्यवते दिवः॥ 12-342-3(79388)
देवतानां च को देवः पितॄणां च पिता तथा।
तस्मात्परतरं यच्च तन्मे ब्रूहि पितामह॥ 12-342-4(79389)
भीष्म उवाच। 12-342-5x(6562)
गूढं मां प्रश्नवित्प्रश्नं पृच्छसे त्वमिहानघ।
न ह्येतत्तर्कया शक्यं वक्तुं वर्षशतैरपि॥ 12-342-5(79390)
ऋते देवप्रसादाद्वा राजञ्ज्ञानागमेन वा।
गहनं ह्येतदाख्यानं व्याख्यातव्यं तवारिहन्॥ 12-342-6(79391)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
नारदस्य च संवादमृषेर्नारायणस्य च॥ 12-342-7(79392)
नारायणो हि विश्वात्मा चतुर्मूर्तिः सनातनः।
धर्मात्मजः संबभूव पितैवं मेऽभ्यभाषत॥ 12-342-8(79393)
कृते युगे महाराज पुरा स्वायंभुवेऽन्तरे।
नरो नारायणश्चैव हरिः कृष्णस्तथैव च॥ 12-342-9(79394)
तेषां नारायणनरौ तपस्तेपतुरव्ययौ।
बदर्याश्रममासाद्य शकटे कनकामये॥ 12-342-10(79395)
अष्टचक्रं हि तद्यानं भूतयुक्तं मनोरमम्।
तत्राद्यौ लोकनाथौ तौ कृशौ धमनिसंततौ॥ 12-342-11(79396)
तपसा तेजसा चैव दुर्निरीक्ष्यौ सुरैरपि।
यस्य प्रसादं कुर्वाते स देवौ द्रष्टुमर्हति॥ 12-342-12(79397)
नूनं तयोरनुमते हृदि हृच्छपचोदितः।
महामेरोगिंरेः शृङ्गात्प्रत्युतो गन्धमादनम्॥ 12-342-13(79398)
नारदः सुमहद्भूतं सर्वलोकानचीचरत्।
तं देशमगमद्राजन्वदर्याश्रममाशुगः॥ 12-342-14(79399)
तयोराह्निकवेलायां तस्य कौतूहलं त्वभूत्।
इदं तदास्पदं कृत्स्नं यस्मिँल्लोकाः प्रतिष्ठिताः॥ 12-342-15(79400)
सदेवासुरगन्धर्वाः सकिन्नरमहोरगाः।
एका मूर्तिरियं पूर्वं जाता भूयश्चतुर्विधा॥ 12-342-16(79401)
धर्मस्य कुलसंताने धर्मादेभिर्विवर्धितः।
अहो ह्यनुगृहीतोऽद्य धर्म एभिः सुरैरिह॥ 12-342-17(79402)
नरनारायणाभ्यां च कृष्णेन हरिणा तथा।
अत्र कृष्णो हरिश्चैव कस्मिंश्चित्कारणान्तरे॥ 12-342-18(79403)
स्थितौ धर्मसुतावेतौ तथा तपसि धिष्ठितौ।
एतौ हि परमं धाम काऽनयोराह्निकक्रिया॥ 12-342-19(79404)
पितरौ सर्वभूतानां दैवतं च यशस्विनौ।
कां देवतां तु यजतः पितॄन्वा कान्महामती॥ 12-342-20(79405)
इति संचिन्त्य मनसा भक्त्या नारायणस्य तु।
सहसा प्रादुरभवत्समीपे देवयोस्तदा॥ 12-342-21(79406)
कृते दैवे च पित्र्ये च ततस्ताभ्यां निरीक्षितः।
पूजितश्चैव विधिना यथाप्रोक्तेन शास्त्रतः॥ 12-342-22(79407)
तद्दृष्ट्वा महदाश्चर्यमपूर्वं विधिविस्तरम्।
उपोपविष्टः सुप्रीतो नारदो भगवानृषिः॥ 12-342-23(79408)
नारायणं संनिरीक्ष्य प्रसन्नेनान्तरात्मना।
नमस्कृत्य महादेवमिदं वचनमब्रवीत्॥ 12-342-24(79409)
वेदेषु सपुराणेषु साङ्गोपाङ्गेषु गीयसे।
त्वमजः शाश्वतो धाता माता मृतमनुत्तमम्॥ 12-342-25(79410)
प्रतिष्ठितं भूतभव्यं त्वयि सर्वमिदं जगत्।
चत्वारो ह्याश्रमा देव सर्वे गार्हस्थ्यमूलकाः॥ 12-342-26(79411)
यजन्ते त्वामहरहर्नानामूर्तिसमास्थितम्।
पिता माता च सर्वस्य देवतानां च शाश्वतम्।
कं त्वद्य यजसे देवं पितरं कं न विद्महे॥ 12-342-27(79412)
`कमर्चसि महाभाग तन्मे प्रब्रूहि पृच्छतः॥' 12-342-28(79413)
श्रीभगवानुवाच। 12-342-29x(6563)
अवाच्यमेतद्वक्तव्यमात्मगुह्यं सनातनम्।
तव भक्तिमतो ब्रह्मन्वक्ष्यामि तु यथातथम्॥ 12-342-29(79414)
यत्तत्सूक्ष्ममविज्ञेयमव्यक्तमचलं ध्रुवम्।
इन्द्रियैन्द्रियार्थैश्च सर्वभूतैश्च वर्जितम्॥ 12-342-30(79415)
स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यते।
त्रिगुणव्यतिरिक्तो वै पुरुषश्चेति कल्पितः॥ 12-342-31(79416)
तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम।
अव्यक्ताव्यक्तभावस्था या सा प्रकृतिरव्यया॥ 12-342-32(79417)
तां योनिमावयोर्विद्धि योसौ सदसदात्मकः।
आवाभ्यां पूज्यते यो हि दैवे पित्र्ये च कल्प्यते॥ 12-342-33(79418)
नास्ति तस्मात्परोऽन्यो हि पिता देवोऽथवा द्विज।
आत्मा हि नौ स विज्ञेयस्ततस्तं पूजयावहे॥ 12-342-34(79419)
तेनैषा प्रथिता ब्रह्मन्मर्यादा लोकमाविनी।
दैवं पित्र्यं च कर्तव्यमिति तस्यानुशासनम्॥ 12-342-35(79420)
ब्रह्मा स्थाणुर्मनुर्दक्षो भृगुर्धर्मस्तथा यमः।
मरीचिरङ्गिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः॥ 12-342-36(79421)
वसिष्ठः परमेष्ठी च विवस्वान्सोम एव च।
कर्दमश्चापि यः प्रोक्तः क्रोधो विक्रीत एव च॥ 12-342-37(79422)
*एकविंशतिरुत्पन्नास्ते प्रजापतयः स्मृताः।
तस्य देवस्य मर्यादां पूजयन्तः सनातनीम्॥ 12-342-38(79423)
दैवं पित्र्यं च सततं तस्य विज्ञाय तत्त्वतः।
आत्मप्राप्तानि च ततो जानन्ति द्विजसत्तमाः॥ 12-342-39(79424)
स्वर्गस्था अपि ये केचित्तान्नमस्यन्ति देहिनः।
ते तत्प्रसादाद्गच्छन्ति तेनादिष्टफलां गतिम्॥ 12-342-40(79425)
ये हीनाः सप्तदशभिर्गुणैः कर्मभिरेव च।
कलाः पञ्चदश त्यक्त्वा ते मुक्ता इति निश्चयः॥ 12-342-41(79426)
मुक्तानां तु गतिर्ब्रह्मन्क्षेत्रज्ञ इति कल्पिता।
स हि सर्वगतिश्चैव निर्गुणश्चैव कथ्यते॥ 12-342-42(79427)
दृश्यते ज्ञानयोगेन आवां च प्रसृतौ ततः।
एवं ज्ञात्वा तमात्मानं पूजयावः सनातनम्॥ 12-342-43(79428)
तं वेदाश्चाश्रमाश्चैव नानातनुसमाश्रितम्।
भक्त्या संपूजयन्त्यद्य गतिं चैषां ददाति सः॥ 12-342-44(79429)
ये तु तद्भाविता लोके ह्येकान्तित्वं समास्थिताः।
एतदभ्यधिकं तेषां यत्ते तं प्रविशन्त्युत॥ 12-342-45(79430)
इति गुह्यसमुद्देशस्तव नारद कीर्तितः।
भक्त्या प्रेम्णा च विप्रर्षे अस्मद्भक्त्या च ते श्रुतः॥ ॥ 12-342-46(79431)

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्विचत्वारिंशदधिकत्रिशततमोऽध्यायः॥ 342॥

Mahabharata - Shanti Parva - Chapter Footnotes

12-342-3 किं कुर्यात्कथं न चलते दिव इति ध. पाठः॥ 12-342-5 अतिगूढमिति प्रश्नमिति ट. पाठः। नह्येतदन्यथा शक्यमिति ध. पाठः। तर्कया तक्रेण आर्षो लिङ्गव्यत्ययः॥ 12-342-6 ज्ञानागमेन ऋते विना॥ 12-342-8 चतस्रो मूर्तयो नराद्याः॥ 12-342-17 धर्मस्य मूलसंतानो महानिति विवर्धित इति ध. पाठः॥ 12-342-19 स्थितौ धर्मोत्तरौ ह्येताविति झ. पाठः॥ 12-342-25 सपुराणेषु शास्त्रेषु च महामतिरिति ध. पाठः। धाता विधाता मृत्युरुत्तम इति थ. पाठः॥ 12-342-34 आत्मा हि नः स विज्ञेय इति झ. पाठः॥ 12-342-35 तेनैव स्थापिता ब्रह्मन्निति थ. पाठः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.